|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.167. अध्यायः 167
Mahabharata - Adi Parva - Chapter Topics
हिडिम्बावधे प्रवृत्तस्य भीमस्य युधिष्ठिरकृतं निवारणं॥ 1 ॥
हिडिम्बया स्वस्य धर्मज्ञत्वस्य भविष्यज्ज्ञत्वस्य च प्रकटनम्॥ 2 ॥
हिडिम्बाया धर्मिष्ठतां ज्ञात्वा तदङ्गीकरणे भीमं प्रति कुन्त्या आज्ञा॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-167-0x(978)(7623)
सा तानेवापतत्तूर्णं भगिनी तस्य रक्षसः।
अब्रुवाणा हिडिम्बा तु राक्षसी पाण्डवान्प्रति॥ 1-167-1(7624)
अभिवाद्य ततः कुन्तीं धर्मराजं च पाण्डवम्।
अभिपूज्य ततः सर्वान्भीमसेनमभाषत॥ 1-167-2(7625)
अहं ते दर्शादेव मन्मथस्य वशं गता।
क्रूरं भ्रातृवचो हित्वा सा त्वामेवानिरुन्धती॥ 1-167-3(7626)
राक्षसे रौद्रसङ्काशे तवापश्यं विचेष्टितम्।
अहं शुश्रूषुरिच्छेयं तव गात्रं निषेवितुम्॥' 1-167-4(7627)
भीमसेन उवाच। 1-167-5x(979)
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम्।
हिडिम्बे व्रज पन्थानं त्वमिमं भ्रातृसेवितम्॥ 1-167-5(7628)
युधिष्ठिर उवाच। 1-167-6x(980)
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः।
शरीरगुप्त्यभ्यधिकं धर्मं गोपाय पाण्डव॥ 1-167-6(7629)
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम्।
रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति॥ 1-167-7(7630)
वैशम्पायन उवाच। 1-167-8x(981)
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः।
युधिष्ठिरं तु कौन्तेयमिदं वचनमब्रवीत्॥ 1-167-8(7631)
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम्।
तदिदं मामनुप्राप्तं भीमसेनकृते शुभे॥ 1-167-9(7632)
सोढं तत्परमं दुःखं मया कालप्रतीक्षया।
सोऽयमभ्यागतः कालो भविता मे सुखोदयः॥ 1-167-10(7633)
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा।
वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे॥ 1-167-11(7634)
वीरेणाऽहं तथाऽनेन त्वया चापि यशस्विनी।
प्रत्याख्याता न जीवामि सत्यमेतद्ब्रवीमि ते॥ 1-167-12(7635)
यदर्हसि कृपां कर्तुं मयि त्वं वरवर्णिनि।
मत्वा मूढेति तन्मां त्वं भक्ता वाऽनुगतेति वा॥ 1-167-13(7636)
भर्त्राऽनेन महाभागे संयोजय सुतेन ह।
समुपादाय गच्छेयं यथेष्टं देवरूपिणम्।
पुनश्चैवानयिष्यामि विस्रम्भं कुरु मे शुभे॥ 1-167-14(7637)
`अहं हि समये लप्स्ये प्राग्भ्रातुरपर्वजनात्।
ततः सोऽभ्यपतद्रात्रौ भीमसेनजिघांसया॥ 1-167-15(7638)
यथायथा विक्रमते यथारिमधितिष्ठति।
तथातथा समासाद्य पाण्डवं काममोहिता॥ 1-167-16(7639)
न यातुधान्यहं त्वार्ये न चास्मि रजनीचरी।
ईशा रक्षस्स्वसा ह्यस्मि राज्ञि सालकटङ्कटी॥ 1-167-17(7640)
पुत्रेण तव संयुक्ता युवतिर्देववर्णिनी।
सर्वान्वोऽहमुपस्थास्ये पुरस्कृत्य वृकोदरम्॥ 1-167-18(7641)
अप्रमत्ता प्रमत्तेषु शुश्रूषुरसकृत्त्वहम्।'
वृजिने तारयिष्यामि दासीवच्च नरर्षभाः॥ 1-167-19(7642)
पृष्ठेन वो वहिष्यामि विमानं सुकृतानिव।
यूयं प्रसादं कुरुत भीमसेनो भजेत माम्॥ 1-167-20(7643)
`एवं ब्रुवन्ती ह तथा प्रत्याख्याता क्रियां प्रति।
भूम्यां दुष्कृतिनो लोकान्गमिष्येऽहं न संशयः॥ 1-167-21(7644)
अहं हि मनसा ध्यात्वा सर्वं वेत्स्यामि सर्वदा।'
आपन्निस्तरणे प्राणान्धारयिष्ये न केनचित्॥ 1-167-22(7645)
सर्वमावृत्य कर्तव्यं धर्मं समनुपश्यता।
आपत्सु यो धारयति स वै धर्मविदुत्तमः॥ 1-167-23(7646)
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते।
पुम्यात्प्राणान्धारयति पुण्यं वै प्राणधारणम्॥ 1-167-24(7647)
येन केनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते।
`महतोऽत्र स्त्रियं कामाद्वाधितां त्राहि मामपि॥ 1-167-25(7648)
धर्मार्थकाममोक्षेषु दयां कुर्वन्ति साधवः।
तत्तु धर्ममिति प्राहुर्मुनयो धर्मवत्सलाः॥ 1-167-26(7649)
दिव्यज्ञानेन जानामि व्यतीतानागतानहम्।
तस्माद्वक्ष्यामि वः श्रेय आसन्नं सर उत्तमम्॥ 1-167-27(7650)
अद्यासाद्य सरः स्नात्वा विश्रम्य च वनस्पतौ।
श्वः प्रभाते महद्भूतं प्रादुर्भूतं जगत्पतिम्॥ 1-167-28(7651)
व्यासं कमलपत्राक्षं दृष्ट्वा शोकं विहास्यथ।
धार्तराष्ट्राद्विवासं च दहनं वारणावते॥ 1-167-29(7652)
त्राणं च विदुरात्तुभ्यं विदितं ज्ञानचक्षुषा।
आवासे शालिहोत्रस्य स वो वासं विधास्यति॥ 1-167-30(7653)
वर्षवातातपसहो ह्ययं पुण्यो वनस्पतिः।
पीतमात्रे तु पानीये क्षुत्पिपासे विनश्यतः॥ 1-167-31(7654)
तपसा शालिहोत्रेण सरो वृक्षश्च निर्मितः।
कादम्बाः सारसा हंसाः कुरर्यः कुररैः सह॥ 1-167-32(7655)
रुवन्ति मधुरं गीतं गान्धर्वस्वनमिश्रितम्। 1-167-33(7656)
वैशम्पायन उवाच।
तस्यास्तद्वचनं श्रुत्वा कुन्ती वचनमब्रवीत्॥ 1-167-33x(982)
युधिष्ठिरं महाप्राज्ञं सर्वधर्मविशारदम्। 1-167-34(7657)
कुन्त्युवाच।
त्वं हि धर्मभृतां श्रेष्ठो मयोक्तं शृणु भारत॥ 1-167-34x(983)
राक्षस्येषा हि वाक्येन धर्मं वदति साधु वै।
भावेन दुष्टा भीमं वै किं करिष्यति राक्षसी॥ 1-167-35(7658)
भजतां पाण्डवं वीरमपत्यार्थं यदीच्छसि।' 1-167-36(7659)
युधिष्ठिर उवाच।
एवमेतद्यथाऽऽत्थ त्वं हिडिम्बे नात्र संशयः॥ 1-167-36x(984)
स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे।
`नित्यं कृताह्निका स्नाता कृतशौचा सुरूपिणी॥' 1-167-37(7660)
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम्।
भीमसेनं भजेथास्त्वमुदिते वै दिवाकरे॥ 1-167-38(7661)
अहस्सु विहरानेन यथाकामं मनोजवा।
अयं त्वानयितव्यस्ते भीमसेनः सदा निशि॥ 1-167-39(7662)
प्राक्सन्ध्यातो विमोक्तव्यो रक्षितव्यश्च नित्यशः।
एवं रमस्व भीमेन यावद्गर्भस्य वेदनम्॥ 1-167-40(7663)
एष ते समयो भद्रे शुश्रूषा चाप्रमत्तया।
नित्यानुकूलया भूत्वा कर्तव्यं शोभनं त्वया॥ ॥ 1-167-41(7664)
इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः॥ 167 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-167-5 भ्रातृसेवितं पन्थानं मृत्युम्॥ सप्तषष्ट्यधिकशततमोऽध्यायः॥ 167 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|